Connect with us

Shri Guru Charitra

Shri Guru Charitra Adhyay 49 – श्री गुरुचरित्र अध्याय उनचास

Shri Guru Charitra Adhyay
Prev1 of 2
Use your ← → (arrow) keys to browse

श्री गुरु चरित्र परयाण का यह उनचासवाँ अध्याय है श्री गुरु चरित्र में कुल 53 अध्याय हैं आप इन्हें एक एक कर पाठ करे सभी आधाय का लिंक नीचे दिया गया है .

श्रीगणेशाय नमः ॥ श्रीसरस्वत्यै नमः ॥ श्रीगुरुभ्यो नमः ॥

नामधारक शिष्य सगुण । लागे सिद्धाच्या चरणा ।
विनवीतसे सुलक्षणा । करी नमस्कार अष्टांगें ॥ १ ॥

जयजया जी सिद्धमुनि । तूं राजयोगी ब्रह्मज्ञानी ।
गुरुचरित्र दाविलें नयनीं । कृपासागरा गुरुमूर्ति ॥ २ ॥

स्वामी निरोपिले सकळ धर्म । त्याणें झालें निःशेष कर्म ।
साध्य झालें परावर्म । तुझिये कृपें दातारा ॥ ३ ॥

श्र्लोकः अनादिघोर संसार-ध्वांतध्वंसैकहेतवे ।
नमः श्रीनाथवैद्याय, भवौषधविधायिने ॥
संसारसागर पहातां । अनादि नाहीं आदिअंता ।
महाघोर मलबद्धता । उत्तीर्णता नाहीं याकारणें ॥ ४ ॥

म्हणोनि शरण रिघावें । तो तारक या भवार्णवा पहावें ।
औषध घ्यावें मनोभावें । आरोग्य होय तात्काळीं ॥ ५ ॥

ऐसा आगमनिगमसिद्धान्त । बोलताति बुद्धिवंत ।
युगायुगीं फिरत जात । या संसारसागरीं ॥ ६ ॥

गुरुभक्ति म्हणिजे कामधेनु । जे आचरती विद्वज्जनु ।
वसिष्ठादि शुकमुनि । सारज्ञ जे शास्त्रांचे ॥ ७ ॥

ईश्र्वरपार्वतीसंवाद । कथा निर्मळ अति विनोद ।
तें आचरती मुक्तिपद । हा मार्ग सद्गुरुचा ॥ ८ ॥

पार्वती पुशिलें ईश्र्वराप्रती । ईश्र्वरें सांगितलें कवणें रीतीं ।
जेणे लोक उद्धरती । तें निरोपावें दातारा ॥ ९ ॥

शिष्यप्रश्र्न ऐकोनि । संतोष पावला सिद्धमुनि ।
धन्य धन्य तुझें जीवनी । गुरुसेवातत्पर बाळका ॥ १० ॥

तुवां पुसिलें अनादि कथन । जेणें होय मोहशमन ।
अज्ञानपण सांडोनि दृढ मन । सूर्यप्रकाश जेवीं लोकांसी ॥ ११ ॥

ऐक वत्सा गुरुदास्यका । भला केला तुवां प्रश्र्न निका ।
सांगेन आतां कुळदीपका । एकचित्तें अवधारीं ॥ १२ ॥

पूर्वी कैलासशिखरीं बैसला होता त्रिपुरारि ।
प्रश्र्न करी शैल्यकुमरी । समस्त लोक उद्धरावया ॥ १३ ॥

श्रीगुरुगीता प्रारंभः

ॐ अस्य श्रीगुरुगीतास्तोत्रमंत्रस्य भगवान् सदाशिव ऋषिः । नानाविधानि छंदांसि ।
श्रीगुरुपरमात्मा देवता । हं बीजं । सः शक्तिः । क्रों कीलकं । श्रीगुरुप्रसादसिद्ध्यर्थे जपे विनियोगः ॥
अथ करंन्यासाः ॥

ॐ हं सां सूर्यात्मने अगुष्ठाभ्यां नमः । ॐ हं सीं सोमात्मने तर्जनीभ्यां नमः ।
ॐ हं सूं निरंजनात्मने मध्यमाभ्यां नमः । ॐ हं सैं निराभासात्मने अनामिकाभ्यां नमः ।
ॐ हं सौं अतनुसूक्ष्मात्मने कनिष्ठिकाभ्यां नमः । ॐ हं सः अव्यक्तात्मने करतलकरपृष्ठाभ्यां नमः ।
अथ हृदयादिन्यासाः
ॐ हं सां सूर्यात्मने हृददयाय नमः । ॐ हं सीं सोमात्मने शिरसे स्वाहा ।
ॐ हं सूं निरंजनात्मने शिखायै वषट् । ॐ हं सैं निराभासात्मने कवचाय हुं ।
ॐ हं सौं अतनुसूक्ष्मात्मने नेत्रत्रयाय वौषट् । ॐ हं सः अव्यक्तात्मने अस्त्राय फट् ।
ॐ ब्रह्म भुर्भूवः स्वरोमिति दिग्बन्धः ।

अथ ध्यानं

हंसाभ्यां परिवृत्तपत्रकमलैदिव्यैर्जगत्कारणैर्विश्र्वोत्कीर्णमनेकदेहनिलयैः स्वच्छन्दमात्मेच्छया ।
तद्योतं पदशांभवं तु चरणं दीपांकुरग्राहिणं । प्रत्याक्षाक्षरविग्रहं गुरुपदं ध्यायेद्विभुं शाश्र्वतम् ॥ १ ॥

मम चतुर्विधपुरुषार्थसिद्ध्यर्थे जपे विनियोगः ।

सूत उवाच

कैलासशिखरे रम्ये, भक्तिसंधान-नायकं ।
प्रणम्य पार्वती भक्त्या, शंकरं पर्यपृच्छत ॥ १ ॥

श्रीदेव्युवाच ॐ नमो देवदेवेश, परात्पर जगद्गुरो ।
सदाशिव महादेव, गुरुदीक्षां प्रदेहि मे ॥ २ ॥

केन मार्गेण भो स्वामिन्, देही ब्रह्मयो भवेत् ।
त्वां कृपां कुरु मे स्वामिन्, नमामि चरणौ तव ॥ ३ ॥

ईश्र्वर उवाच ममरुपासि देवि त्वं, त्वत्प्रीत्यर्थं वदाम्यहम् ।
लोकोपकारक प्रश्र्णो, न केनापि कृतः पुरा ॥ ४ ॥

दुर्लभं त्रिषु लोकेषु, तच्छृणुष्व वदाम्यहम् ।
गुरुं विना ब्रह्म नान्यत्, सत्यं सत्यं वरानने ॥ ५ ॥

वेदशास्त्रपुराणानि, इतिहासादिकानि च ।
मंत्रयंत्रादिविद्याश्र्च, स्मृतिरुच्चाटनादिकम् ॥ ६ ॥

शैवशाक्तागमादीनि, अन्यानि विविधानि च ।
अपभ्रंशकराणीह, जीवानां भ्रांतचेतसाम् ॥ ७ ॥

यज्ञो व्रतं तपो दानं, जपस्तीर्थं तथैव च ।
गुरुतत्त्वमविज्ञाय, मूढास्ते चेरते जनाः ॥ ८ ॥

गुरुबुद्ध्यात्मनो नान्यत्, सत्यं सत्यं न संशयः ।
तल्लाभार्थं प्रयत्नस्तु, कर्तव्यो हि मनीषिभिः ॥ ९ ॥

गूढविद्या जगन्माया, देहे चाज्ञानसंभवा ।
उदयः स्वप्रकाशेन, गुरुशब्देन कथ्यते ॥ १० ॥

सर्वपापविशुद्धात्मा, श्रीगुरोः पादसेवनात् ।
देही ब्रह्म भवेद्यस्मात्, तत्कृतार्थं वदामि ते ॥ ११ ॥

गुरुपादांबुजं स्मृत्वा, जले शिरसि धारयेत् ।
सर्वतीर्थावगाहस्य, संप्राप्नोति फले नरः ॥ १२ ॥

शोषणं पापपङ्कस्य, दीपनं ज्ञानतेजसाम् ।
गुरुपादोदकं सम्यक्, संसारार्णवतारकम् ॥ १३ ॥

अज्ञानमूलहरणं, जन्मकर्मनिवारणम् ।
ज्ञानवैराग्य सिद्ध्यर्थं, गुरुपादोदकं पिबेत् ॥ १४ ॥

गुरोः पादोदकं पीत्वा, गुरोरुच्छिष्टभोजनम् ।
गुरुमूर्तेः सदा ध्यानं, गुरुमंत्रं सदा जपेत् ॥ १५ ॥

काशीक्षेत्रं तन्निवासो, जान्हवी चरणोदकम् ।
गुरुर्विश्र्वेश्र्वरः साक्षात्, तारकं ब्रह्म निश्र्चितम् ॥ १६ ॥

गुरोः पादोदकं यत्तु, गयाऽसौसोऽक्षयो वटः ।
तीर्थराजः प्रयागश्र्च, गुरुमूर्ते नमो नमः ॥ १७ ॥

गुरुमूर्ति स्मरेन्नित्यं, गुरुनाम् सदा जपेत् ।
गुरोराज्ञां प्रकुर्वीत, गुरोरन्यन्न भावयेत् ॥ १८ ॥

गुरुवक्त्रस्थितं ब्रह्म, प्राप्यते तत्प्रसादतः ।
गुरोर्ध्यानं सदा कुर्यात्, कुलस्त्री स्वपतेर्यथा ॥ १९ ॥

स्वाश्रमं च स्वजातिं च, स्वकीर्तिपुष्टिवर्धनम् ।
एतत्सर्वं परित्यज, गुरोरन्यन्न भावयेत् ॥ २० ॥

अनन्याश्र्चिन्तयन्तो मां, सुलभं परमं पदम् ।
तस्मात्सर्वप्रयत्नेन, गुरोराराधनं कुरु ॥ २१ ॥

त्रैलोक्यस्फुटवक्तारो, देवाद्यसुरपन्नगाः ।
गुरुवक्रस्थिता विद्या, गुरुभक्त्या तु लभ्यते ॥ २२ ॥

गुकारस्त्वन्धकारश्र्च, रुकारस्तेज उच्यते ।
अज्ञानग्रासकं ब्रह्म, गुरुरेव न संशयः ॥ २३ ॥

गुकारः प्रथमो वर्णो, मायादिगुणभासकः ।
रुकारो द्वितीयो ब्रह्म, मायाभ्रान्तिविनाशनम् ॥ २४ ॥

एवं गुरुपदं श्रेष्ठं, देवानामपि दुर्लभम् ।
हाहाहूहूगणैश्र्चैव, गंधर्वैश्र्च प्रपूज्यते ॥ २५ ॥

ध्रुवं तेषां च सर्वेषां, नास्ति तत्त्वं गुरोः परम् ।
आसनं शयनं वस्त्रं, भूषणं वाहनादिकम् ॥ २६ ॥

साधकेन प्रदातव्यं, गुरुसंतोषकारकम् ।
गुरोराराधनं कार्यं, स्वजीवित्वं ननिवेदयेत् ॥ २७ ॥

कर्मणा मनसा वाचा, नित्यमाराधयेद्गुरुम् ।
दीर्घदण्डं नमस्कृत्य, निर्लज्जो गुरुसन्निधौ ॥ २८ ॥

शरीरमिन्द्रियं प्राणं, सद्गुरुभ्यो निवेदयेत् ।
आत्मदारादिकं सर्वं, सद्गुरुभ्यो निवेदयेत् ॥ २९ ॥

कृमिकीटकभस्मविष्ठा-दुर्गन्धिमलमूत्रकम् ।
श्र्लेष्म-रक्तं त्वचा मासं वचयेन्न वरानने ॥ ३० ॥

संसारवृक्षमारुढाः पतन्तो नरकार्णवे ।
येन चैवोद् धृताः सर्वे, तस्मै श्रीगुरवे नमः ॥ ३१ ॥

गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्र्वरः ।
गुरुरेव परब्रह्म, तस्मै श्रीगुरवे नमः ॥ ३२ ॥

हेतवे जगतामेव, संसारार्णवसेतवे ।
प्रभवे सर्व विद्यानां शंभवे गुरवे नमः ॥ ३३ ॥

अज्ञानतिमिरांधस्य, ज्ञानांजनशलाकया ।
चक्षुरुन्मीलितं येन, तस्मै श्रीगुरवे नमः ॥ ३४ ॥

त्वं पिता त्वं च मे माता, त्वं बंधुस्त्वं च देवता ।
संसारप्रतिबोधार्थं, तस्मै श्रीगुरवे नमः ॥ ३५ ॥

यत्सत्येन जगत्सत्यं, यत्प्रकाशेन भाति तत् ।
यदानंदेन नंदन्ति, तस्मै श्रीगुरवे नमः ॥ ३६ ॥

यस्य स्थित्वा सत्यमिदं, यद्भाति भानुरुपतः ।
प्रियं पुत्रादि यत्प्रीत्या, तस्मै श्रीगुरवे नमः ॥ ३७ ॥

येन चेतयते हीदं, चित्तं चेतयते न यम् ।
जाग्रत्स्वप्नसुषुप्त्यादि, तस्मै श्रीगुरवे नमः ॥ ३८ ॥

यस्य ज्ञानादिदं विश्र्वं, न दृश्यं भिन्नभेदतः ।
सदेकरुपरुपाय, तस्मै श्रीगुरवे नमः ॥ ३९ ॥

‘ यस्यामतं तस्य मतं, मतं यस्य न वेद सः ‘ ।
अनन्यभावभावाय, तस्मै श्रीगुरवे नमः ॥ ४० ॥

यस्य कारणरुपस्य, कार्यरुपेण भाति यत् ।
कार्यकारणरुपाय, तस्मै श्रीगुरवे नमः ॥ ४१ ॥

नानारुपमिदं सर्वं, न केनाप्यस्ति भिन्नता ।
कार्यकारणता चैव, तस्मै श्रीगुरवे नमः ॥ ४२ ॥

यदंघ्रिकमलद्वंद्वं द्वद्वतापनिवारकं ।
तारकं सर्वदाऽऽपद्भ्यः श्रीगुरुं प्रणमाम्यहम् ॥ ४३ ॥

शिवे कृद्धे गुरुस्त्राता, गुरौ क्रुद्धे शिवो न हि ।
तस्मात्सर्वप्रयत्नेन, श्रीगुरुं शरणं व्रजेत् ॥ ४४ ॥

वन्दे गुरुपदद्वंद्वं, वाङ्मनश्र्चित्तगोचरं ।
श्र्वेतरक्तप्रभाभिन्नं, शिवशक्त्यात्मकं परम् ॥ ४५ ॥

गुकारं च गुणातीतं, रुकारं रुपवर्जितम् ।
गुणातीतस्वरुपं च, यो दद्यात्स गुरुः स्मृतः ॥ ४६ ॥

अ-त्रिनेत्रः सर्वसाक्षी, अ-चतुर्बाहुरच्युतः ।
अ-चतुर्वदनो ब्रह्मा, श्रीगुरुः कथितः प्रिये ॥ ४७ ॥

अयं मयाञ्जलिर्बद्धो, दयासागरवृद्धये ।
यदनुग्रहतो जन्तुश्र्चित्रसमसारमुक्तिभाक् ॥ ४८ ॥

श्रीगुरोः परमं रुपं, विवेकचक्षुषोऽमृतम् ।
मन्दभाग्या न पश्यन्ति, अन्धाः सूर्योदयं यथा ॥ ४९ ॥

श्रीनाथचरणद्वंद्वं, यस्यां दिशी विराजते ।
तस्यै दिशे नमस्कुर्याद्भक्त्या प्रतिदिनं प्रिये ॥ ५० ॥

तस्यै दिशे सततमञ्जलिरेष आर्ये, प्रक्षिप्यते मुखरितो मधुपैर्बुधैश्र्च ।
जागर्ति यत्र भगवान् गुरुचक्रवर्ती, विश्र्वोदप्रलयनाटकनित्यसाक्षी ॥ ५१ ॥

श्रीनाथादिगुरुत्रयं गणपतिं पीठत्रयं भैरवं,
सिद्धौघं बटुकत्रयं पदयुगं दूतीत्रयं शांभवम् ।
वीरेशाष्टचतुष्कपष्टिनवकं वीरावलीपश्र्चकं,
श्रीमन्मालिनिमंत्रराजसहितं वन्दे गुरोर्मण्डलम् ॥ ५२ ॥

अभ्यस्तैः सकलैः सुदीर्घमनिलैर्व्याधिप्रदैर्दुष्करैः,
प्राणायामशतैरनेककरणैर्दुःखात्मकैर्दुर्जयैः ।
यस्मिन्नभ्युदिते विनश्यति बली वायुः स्वयं तत्क्षणात् ;
प्राप्तुं तत्सहज स्वभावनिशं सेवध्वमेकं गुरुम् ॥ ५३ ॥

स्वदेशिकस्यैव शरीरचिन्तनं, भवेदनन्तस्य शिवस्य चिन्तनम् ।
स्वदेशिकस्यैव च नामकीर्तनं, भवेदनन्तरस्य शिवस्य कीर्तनम् ॥ ५४ ॥

यत्पादरेणुकणिका, कापि संसारवारिधेः ।
सेतुबंधायते नाथं, देशिकं तमुपास्महे ॥ ५५ ॥

यस्मादनुग्रहं लब्ध्वा, महदज्ञानमुत्सृजेत् ।
तस्मै श्रीदेशिकेंद्राय, नमश्र्चाभीष्टसिद्धये ॥ ५६ ॥

पादाब्जं सर्वसंसार-दावानलविनाशकं ।
ब्रह्मरंध्रे सिताम्भोज-मध्यस्थं चन्द्रमण्डले ॥ ५७ ॥

अकठादित्रिरेखाब्जे-सहस्त्रदल मण्डले ।
हंसपार्श्र्वत्रिकोणे च, स्मरेत्तन्मध्यगं गुरुम् ॥ ५८ ॥

सकलभुवनसृष्टिः कल्पिताशेषपुष्टि -निखिलनिगमदृष्टिः संपदा व्यर्थ दृष्टिः ।
अवगुणपरिमार्ष्टिस्तपदार्थैकदृष्टि- -र्भवगुणपरमेष्टिर्मोक्षमार्गैकदृष्टिः ॥ ५९ ॥

सकलभुवनरंगस्थापनास्तंभयष्टिः । सकरुणरसवृष्टिस्तत्त्वमालासमष्टिः ।
सकलसमयसृष्टिः सच्चिदानंददृष्टि-निंवसतु मयि नित्यं श्रीगुरोर्दिव्यदृष्टिः ॥ ६० ॥

अग्निशुद्धसमंतात, ज्वालापरिचकाधिया ।
मंत्रराजमिमं मन्येऽहर्निशं पातु मृत्युतः ॥ ६१ ॥

तदेजति तन्नैजति, तद्दूरे तत्समीपके ।
तदनन्तरस्य सर्वस्य तदु सर्वस्य बाह्यतः ॥ ६२ ॥

अजोऽहमजरोऽहं च, अनादिनिधनः स्वयम् ।
अविकारश्र्चिदानन्द, अणीयान्महतो महान् ॥ ६३ ॥

अपूर्वाणां परं नित्यं, स्वयंज्योतिर्निरामयम् ।
विरजं परमाकाशं, ध्रुवमानन्दमव्ययम् ॥ ६४ ॥

श्रुतिः प्रत्यक्षमैतिह्य-मनुमानश्र्चतुष्ट्ययम् ।
यस्य चात्मतपो वेद, देशिकं च सदा स्मरन् ॥ ६५ ॥

मननं यद्भवं कार्यं, तद्वदामि महामते ।
साधुत्वं च मया दृष्ट्वा, त्वयि तिष्ठति सांप्रतम् ॥ ६६ ॥

अखण्डमण्डलाकारं, व्याप्तं येन चराचरं ।
तत्पदं दर्शितं येन, तस्मै श्रीगुरवे नमः ॥ ६७ ॥

सर्वश्रुतिशिरोरत्न-विराजितपदांबुजः ।
वेदान्ताम्बुजसूर्यो यस्तस्मै श्रीगुरवे नमः ॥ ६८ ॥

यस्य स्मरणमात्रेण, ज्ञानमुत्पद्दते स्वयम् ।
य एव सर्वसंप्राप्तिस्तस्मै श्रीगुरवे नमः ॥ ६९ ॥

चैत्यनं शाश्र्वतं शान्तं, व्योमातीतं निरंजनम् ।
नादबिंदुकलातीतं, तस्मै श्रीगुरवे नमः ॥ ७० ॥

स्थावरं जंगमं चैव, तथा चैव चराचरम् ।
व्याप्तं येन जगत्सर्वं, तस्मै श्रीगुरवे नमः ॥ ७१ ॥

ज्ञानशक्तिसमारुढस्तत्त्वमालाविभूषितः ।
भुक्तिमुक्तिप्रदातायस्, तस्मै श्रीगुरवे नमः ॥ ७२ ॥

अनेकजन्मसंप्राप्त-सर्वकर्मविदाहिने ।
स्वात्मज्ञानप्रभावेण, तस्मै श्रीगुरवे नमः ॥ ७३ ॥

न गुरोरधिकं तत्त्वं न गुरोरधिकं तपः ।
तत्त्वं ज्ञानात्परं नास्ति, तस्मै श्रीगुरवे नमः ॥ ७४ ॥

मन्नाथः श्रीजगन्नाथो, मद्गुरुस्त्रिजगद्गुरुः ।
ममात्मा सर्वभूतात्मा, तस्मै श्रीगुरवे नमः ॥ ७५ ॥

ध्यानमूलं गुरोर्मूर्तिः, पूजामूलं गुरोः पदम् ।
मंत्रमूलं गुरोर्वाक्यं, मोक्षमूलंगुरोः कृपा ॥ ७६ ॥

गुरुरादिरनादिश्र्च, गुरुः परमदैवतम् ।
गुरोः परतरं नास्ति, तस्मै श्रीगुरवे नमः ॥ ७७ ॥

सप्तसागरपर्यंन्त-तीर्थस्नानादिकं फलम् ।
गुरोरंघ्रिपयोबिंदुसहस्रांशे न दुर्लभम् ॥ ७८ ॥

हरौ रुष्टे गुरुस्त्राता, गुरौ रुष्टे न कश्र्वन ।
तस्मात्सर्वप्रयत्नेन, श्रीगुरुं शरणं व्रजेत् ॥ ७९ ॥

गुरुरेव जगत्सर्वं, ब्रह्मविष्णुशिवात्मककम् ।
गुरोः परतरं नास्ति, तस्मात्संपूजयेद् गुरुम् ॥ ८० ॥

ज्ञानं विज्ञानसहितं, लभ्यते गुरुभक्तितः ।
गुरोः परतरं नास्ति, ध्येयोऽसौ गुरुमार्गिभिः ॥ ८१ ॥

यस्मात्परतरं नास्ति, नेति नेतीति वै श्रुतिः ।
मनसा वचसा चैव, नित्यमाराधयेद् गुरुम् ॥ ८२ ॥

गुरोः कृपाप्रसादेन, ब्रह्मविष्णुसदाशिवाः ।
समर्थाः प्रभवादौ च, कैवल्यं गुरुसेवया ॥ ८३ ॥

देवकिन्नरगंधर्वाः पितरो यक्षकिन्नराः ।
मुनयोऽपि न जानन्ति, गुरुशुश्रूषणे विधिम् ॥ ८४ ॥

महाहंकारगर्भेण, तपोविद्याबलान्विताः ।
संसारकुहरावर्ते, घटयंत्रे यथा घटाः ॥ ८५ ॥

न मुक्ता देवगंधर्वाः, पितरो यक्षकिन्नराः ।
ऋषयः सर्वसिद्धाश्र्च, गुरुसेवापराङ्मुखाः ॥ ८६ ॥

ध्यानं श्रृणु महादेवि, सर्वानंदप्रदायकम् ।
सर्वसौख्यकरं नित्यं, भुक्तिमुक्तिविधायकम् ॥ ८७ ॥

श्रीमत् परब्रह्म गुरुं स्मरामि, श्रीमत्परब्रह्म गुरुं वदामि ।
श्रीमत्परब्रह्म गुरुं नमामि, श्रीमत्परब्रह्म गुरुं भजामि ॥ ८८ ॥

ब्रह्मानंदं परमसुखदं केवलं ज्ञानमूर्तिं, द्वंद्वातीतं
गगनसदृशं तत्त्वमस्यादिलक्ष्यम् ।
एकं नित्यं विमलमचलं सर्वधीसाक्षिभूतं,
भावातीतं त्रिगुणरहितं सद्गुरुं तं नमामि ॥ ८९ ॥

नित्यं शुद्धं निराभासं, निराकारं निरंजनम् ।
नित्यबोधं चिदानंदं, गुरुं ब्रह्म नमाम्यहम् ॥ ९० ॥

हृदंबुजे कर्णिकमध्यसंस्थे, सिंहासने संस्थितदिव्यमूर्तिम् ।
ध्यायेद् गुरुं चंद्रकलाप्रकाशं, चित्पुस्तकाभीष्टवरं दधानम् ॥ ९१ ॥

श्र्वेतांबरं श्रवेतविलेपपुष्पं, मुक्ताविभूषं मुदितं द्विनेत्रम् ।
वामांकपीठस्थितदिव्यशक्तिं, शासमंदस्मितं सांद्रकृपानिधानम् ॥ ९२ ॥

आनंदमानंदकरं प्रसन्नं, ज्ञानस्वरुपं निजबोधयुक्तम् ।
योगींद्रमीद्यं भवरोगवैद्यं, श्रीमद्गुरुं नित्यमहं नमामि ॥ ९३ ॥

यस्मिनसृष्टिस्थितिध्वंस-नुग्रहात्मकम् ।
कृत्यं पंचविधं शश्र्वद्भासते तं नमाम्यहम् ॥ ९४ ॥

प्रातः शिरसि शुक्लाब्जे द्विनेत्रं द्विभुजं गुरुम् ।
वराभययुतं शांतं, स्मरेत्तंनामपूर्वकम् ॥ ९५ ॥

न गुरोरधिकं, न गुरोरधिकं न गुरोरधिकं न गुरोरधिकम्,
शिवशासनतः शिवशासनतः, शिवशासनतः शिवशासनतः ॥ ९६ ॥

इदमेव शिवं त्विदमेव शिवं, त्विदमेव शिवं त्विदमेव शिवम् ।
मम शासनतो मम शासनतो, मम शासनतो मम शासनतः ॥ ९७ ॥

एवंविधं गुरुं ध्यात्वा, ज्ञानमुत्पद्यतेस्वयम् ।
तत्सद्गुरुप्रसादेन, मुक्तोऽहमिति भावयेत् ॥ ९८ ॥

गुरुदर्शितमार्गेण, मनःशुद्धिं तु कारयेत् ।
अनित्यं खण्डयेत्सर्वं, यत्किंचिदात्मगोचरम् ॥ ९९ ॥

ज्ञेयं सर्वस्वरुपं च, ज्ञानं च मन उच्यते ।
ज्ञानं ज्ञेयसमं कुर्यान् नान्यः पंथा द्वितीयकः ॥ १०० ॥

Prev1 of 2
Use your ← → (arrow) keys to browse